|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.54. अध्यायः 054
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनोदङ्कंप्रति स्वमाहात्म्यप्रकाशनपूर्वकं कुरूणां स्ववचनातिक्रमणादिरूपस्वापराधेनैव निधनोक्तिः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
उदङ्क उवाच।
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन॥ 14-54-1(93944)
वासुदेव उवाच। 14-54-2x(7872)
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान्।
`स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः॥ 14-54-2(93945)
कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः।
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ॥ 14-54-3(93946)
प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम्।'
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज॥ 14-54-4(93947)
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्।
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः॥ 14-54-5(93948)
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान्।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज॥ 14-54-6(93949)
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्॥ 14-54-7(93950)
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने।
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम्॥ 14-54-8(93951)
असच्च सच्चैव च यद्विश्वं सदसतः परम्।
ततः परतरं नास्ति देवदेवात्सनातनात्॥ 14-54-9(93952)
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे॥ 14-54-10(93953)
होतारमपि हव्यं च विद्धिं मां भृगुनन्दन।
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम्॥ 14-54-11(93954)
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः॥ 14-54-12(93955)
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम॥ 14-54-13(93956)
मानसं दयितं विप्र सर्वभूतदयात्मकम्।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः॥ 14-54-14(93957)
बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम।
लोकसरंक्षणार्थाय धर्मसंस्थापनाय च॥ 14-54-15(93958)
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः॥ 14-54-16(93959)
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः॥ 14-54-17(93960)
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया॥ 14-54-18(93961)
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन।
तदाऽहं देववत्सर्वमाचरामि न संशयः॥ 14-54-19(93962)
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन।
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव॥ 14-54-20(93963)
नागयोनौ यदा चैव तदा वर्तामि नागवत्।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम्॥ 14-54-21(93964)
मानुष्ये वर्तमाने तु कृपणं याचिता मया।
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः॥ 14-54-22(93965)
भयं च महदुद्दिश्य त्रासिताः कुरवो मया।
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः॥ 14-54-23(93966)
तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः॥ 14-54-24(93967)
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ ॥ 14-54-25(93968)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःपञ्चाशोऽध्यायः॥ 54 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-54-8 दैवतानि च कर्माणि विद्धि सर्वान्गुणान्ममेति ट.थ.पाठः॥ 7-54-10 ओंकारप्रमुखानिति झ.पाठः॥ 7-54-11 अध्वर्युः कल्पन इति ट.थ.पाठः॥ 7-54-12 गतमोक्षे महाध्वरे इति ट.थ.पाठः॥ 7-54-14 सर्वभूतगुणात्मकमिति क.ट.थ. पाठः॥ 7-54-19 पुनस्त्वहं देवयोनाविति ट.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|